Adhyaya 2
Original Sanskrit
1 प्राणो ब्रह्मेति ह स्माह कौषीतकिस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वाक्परिवेष्ट्री चक्षुर्गात्रं श्रोत्रं संश्रावयितृ तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलिं हरन्ति तथो एवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद तस्योपनिषन्न याचेदिति । तद्यथा ग्रामं भिक्षित्वाऽलब्धोपविशेन्नाहमतो दत्तमश्नीयामिति । य एवैनं पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम त इत्येष धर्मो याचतो भवति । अन्यतस्त्वेवैनमुपमन्त्रयन्ते ददाम त इति ॥
2 प्राणो ब्रह्मेति ह स्माह पैङ्ग्यस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो वाक्परस्ताच्चक्षुरारुन्धे चक्षुः परस्ताच्छ्रोत्रमारुन्धे श्रोत्रं परस्तान्मन आरुन्धे मनः परस्तात्प्राण आरुन्धे तस्मै वा एतस्मै वा प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलिं हरन्ति एवास्मै सर्वाणि भूतान्ययचमानायैव बलिं हरन्ति य एवं वेद तस्यॊपनिषन्न याचेदिति तद्यथा ग्रामं भिक्षित्वाऽलब्ध्वोपविशेन्नाहमतो दत्तमश्नीयामिति य एवैनं पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम त इत्येष धर्मो याचितो भवत्यन्यतस्त्वेवैनमुपमन्त्रयन्ते ददाम त इति ॥
3 अथात एकधनावरोधनं यदेकधनमभिध्यायात्पौर्णमास्यां वाऽमावास्यायां वा शुद्धपक्षे वा पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्योपूर्वदक्षिणं जान्वाच्य स्रुवेण वा चमसेन वा कंसेन वैता आज्याहुतीर्जुहोति वाङ्नामदेवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । प्राणॊ नाम देवताऽवरॊधिनी सा मेमुष्मादिदमवरुन्धां तस्यै स्वाहा । चक्षुर्नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । श्रोत्रं नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । मनो नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाह। प्रज्ञा नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहेत्यथ धूमगन्धं प्रजिघ्रायाज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रवृज्यार्थं ब्रवीत दूतं वा प्रहिणुयाल्लभते हैव ॥
4 अथातो दैवस्मरो यस्य प्रियो बुभूषेद्यस्यै वा एषां वै तेषामेवैकस्मिन्पर्वण्यग्निमुपसमाधायैतयैवावृतैता आज्याहुतीर्जुहोति वाचं मयि जुहॊम्यसौ स्वाहा । चक्षुस्ते मयि जुहोम्यसौ स्वाहा । श्रॊत्रं ते मयि जुहॊम्यसौ स्वाहा । मनस्ते मयि जुहॊम्यसौ स्वाहा । प्रज्ञां ते मयि जुहोम्यसौ स्वाहेत्यथ धूमगन्धं प्रजिघ्रायाज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रवृज्य संस्पर्शं जिगमिषेदपि वाताद्वा सम्भाषमाणस्तिष्ठेत्प्रियो हैव भवति स्मरन्ति हैवास्य ॥
5 अथातः सायमन्नं प्रातर्दनमान्तरमग्निहोत्रमिति चाचक्षते यावद्वै पुरुषो भाषते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि जुहोति । यावद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति । एतेऽनन्तेऽमृताहुतिर्जाग्रच्च स्वपंश्च सन्ततमव्यवच्छिन्नं जुहोत्यथ या अन्या आहुतयोऽन्तवत्यस्ताः कर्ममय्यो हि भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं न जुहवांचक्रुः ॥
6 उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गरस्तदृगित्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठ्यायाभ्यर्च्यन्ते तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठ्याय युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठ्याय सन्नमन्ते तच्छ्रीरित्युपासीत तद्यश इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छास्त्राणां श्रीमत्तमं यशस्वितमं तेजस्वितमं भवति । तथैवैवं विद्वान्सर्वेषां भूतानां श्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति । तमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति तस्मिन्यजुर्मयं प्रवयति यजुर्मयम् ऋङ्मयं होता ऋङ्मये साममयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उ एवास्यात्मा एतदात्मा भवति य एवं वेद ॥
7 अथातः सर्वजितः कौषीतकेस्त्रीण्युपासनानि भवन्ति यज्ञोपवीतं कृत्वाप आचम्य त्रिरुदपात्रं प्रसिच्योद्यन्तमादित्यमुपतिष्ठेत वर्गोऽसि पाप्मानं मे वृङ्धीत्येतयैवावृता मध्ये सन्तमुद्वर्गोऽसि पाप्मानं मे वृङ्धीत्येतयैवावृताऽस्तं यन्तं संवर्गोऽसि पाप्मानं मे संवृङ्धीति । यदहोरात्राभ्यां पापं करोति सं तद्वृङ्क्ते ॥
8 अथ मासि मास्यमावास्यायां पश्चाच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवावृता हरिततृणाभ्यां वाक्प्रत्यस्यति यत्ते सुसीमं हृदयमधि चन्द्रमसि श्रितं तेनामृतत्वस्येशानं माहं पौत्रमघं रुदमिति न हास्मात्पूर्वाः प्रजाः प्रयन्तीति नु जातपुत्रस्याथाजातपुत्रस्याप्यायस्व समेतु ते सन्ते पयांसि समुयन्तु वाजा यमादित्या अंशुमाप्याययन्तीत्येतास्तिस्र ऋचो जपित्वा मास्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठा यॊऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिराप्यायस्वेति दैवीमावृतमावर्त आदित्यस्यावृतमन्वावर्तयति दक्षिणं बाहुमन्वावर्तते ॥
9 अथ पौर्णमास्यां पुरस्ताच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवावृता सोमो राजासि विचकक्षणः पञ्चमुखोऽसि प्रजापतिर्ब्राह्मणस्त एकं मुखं तेन मुखेन राज्ञोऽत्सि तेन मुखेन मामन्नादं कुरु राजा त एकं मुखं तेन मुखेन विशोत्सि तेनैव मुखेन मामन्नादं कुरु श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽत्सि तेन मुखेन मामन्नादं कुरु अग्निष्ट एकं मुखं तेन मुखेनेमं लोकमत्सि तेन मुखेन मामन्नादं कुरु त्वयि पञ्चमं मुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन मामन्नादं कुरु मास्माकं प्राणेन प्रजया पशुभिरवक्षेष्ठा योऽस्माद्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिरवक्षीयस्वेति दैवीमावृतमावर्त आदित्यस्यावृतमन्वावर्तन्त इति दक्षिणं बाहुमन्वावर्तते ॥
10 अथ संवेशञ्जायायै हृदयमभिमृशेद्यत्ते सुसीमे हृदये हितमन्तः प्रजापतौ मन्येऽहं मां तद्विद्वांसं तेन माहं पौत्रमघं रुदमिति न हास्मत्पूर्वाः प्रजाः प्रैतीति ॥
11 अथ प्रोष्यान्पुत्रस्य मूर्धानमभिमृशेत् । अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा त्वं पुत्र माविथ स जीव शरदः शतमसाविति नामास्य गृह्णाति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । तेजो वै पुत्रनामासि स जीव शरदः शतमसाविति नामास्य गृह्णाति। येन प्रजापतिः प्रजाः पर्यगृह्णादरिष्ट्यै तेन त्वा परिगृह्णाम्यसाविति नामास्य गृह्णात्यथास्य दक्षिणे कर्णे जपत्यस्मै प्रयन्धि मघवन्नृजीषिन्नितीन्द्र श्रेष्ठानि द्रविणानि धेहीति सव्ये मा च्छित्था मा व्यथिष्ठाः शतं शरद आयुषो जीव पुत्र । ते नाम्ना मूर्धानमभिजिघ्राम्यसाविति त्रिर्मूर्धानमवजिघ्रेद्गवां त्वा हिङ्कारेणाभिहिङ्करोमीति त्रिर्मूर्धानमभिहिङ्कुर्यात् ॥
12 अथातो दैवः परिमर एतद्वै ब्रह्म दीप्यते यदग्निर्ज्वलत्यथैतन्म्रियते यन्न ज्वलति तस्यादित्यमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यथादित्यो दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य चन्द्रमसमेव तेजो गचछति वायुं प्राण एतद्वै ब्रह्म दीप्यते यच्चन्द्रमा दृश्यते । अथैतन्म्रियते यन्न दृश्यते तस्य विद्युतमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यद्विद्युद्विद्योततेऽथैतन्म्रियते यन्न विद्योतते तस्य वायुमेव तेजो गच्छति वायुं प्राणः । ता वा एताः सर्वा देवता वायुमेव प्रविश्य वायौ मृता न मृच्छन्ते तस्मादेव उ पुनरुदीरत इत्यधिदैवतमथाध्यात्मम् ॥
13 एतद्वै ब्रह्म दीप्यते यद्वाचा वदत्यथैतन्म्रियते यन्न वदति तस्य चक्षुरेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्चक्षुषा पश्यत्यथैतन्म्रियते यन्न पश्यति तस्य श्रोत्रमेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्छ्रोत्रेण शृणोत्यथैतन्म्रियते यन्न शृणोति तस्य मन एव तेजो गच्छति प्राण एतद्वै ब्रह्म दीप्यते यन्मनसा ध्यायत्यथैतन्म्रियते यन्न ध्यायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणस्तावा एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे मृता न मृच्छन्ते तस्मा देव उ पुनरुदीरते तद्यदिह वा एवं विद्वांस उभौ पर्वतावभिप्रवर्तेयातां तुस्तूर्षमाणो दक्षिणश्चोत्तरश्च न हैवैनं स्तृण्वीयाताम् । अथ य एनं द्विषन्ति यांश्च स्वयं द्वेष्टि त एनं सर्वे परिम्रियन्ते ॥
14 अथातो निःश्रेयसादानं सर्वा ह वै देवता अहं श्रेयसे विवदमानाः । अस्माच्छरीरादुच्चक्रमुस्तद्दारुभूतं शिष्येथैतद्वाक्प्रविवेश तद्वाचा वदच्छिष्य एव । अथैतच्चक्षुः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छिष्य एवाथैनच्छ्रोत्रं प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वच्छिष्य एवाथैनन्मनः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वन्मनसा ध्यायच्छिष्य एवाथैतत्प्राणः प्रविवेश तत्तत एव समुत्तस्थौ ते देवाः प्राणे निःश्रेयसं विचिन्त्य प्राणमेव प्रज्ञात्मानमभिसम्भूय सहैतैः सर्वैरस्माल्लोकादुच्चक्रमुः । ते वायु-प्रतिष्ठाकाशात्मानः स्वर्ययुस्तथॊ एवैवं विद्वान्सर्वेषां भूतानां प्राणमेव प्रज्ञात्मानमभिसम्भूय सहैतैः सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रतिष्ठाकाशात्मा न स्वरेति तद्भवति यत्रैतद्देवास्तत्प्राप्य तदमृतो भवतियदमृता देवाः ॥
15 अथातः पितापुत्रीयं सम्प्रदानमिति चाचक्षते । पिता पुत्रं प्रेष्यन्नाह्वयति नवैस्तृणैरगारं संस्तीर्याग्निमुपसमाधायोदकुम्भं सपात्रमुपनिधायाहतेन वाससा सम्प्रच्छन्नः स्वयं श्येत एत्य पुत्र उपरिषटादभिनिपद्यते, इन्द्रियैरस्येन्द्रियाणि संस्पृश्यापि वास्याभिमुखत एवासीताथास्मै संप्रयच्छति वाचं मे त्वयि दधानीति पिता वाचं ते मयि दध इति पुत्रः प्राणं मे त्वयि दधानीति पिता प्राणं ते मयि दध इति पुत्रः । चक्षुर्मे त्वयि दधानीति पिता चक्षुस्ते मयि दध इति पुत्रः । श्रोत्रं मे त्वयि दधानीति पिता श्रोत्रं ते मयि दध इति पुत्रः । मनो मे त्वयि दधानीति पिता मनस्ते मयि दध इति पुत्रः । अन्नरसान्मे त्वयि दधानीति पितान्नरसांस्ते मयि दध इति पुत्रः । कर्माणि मे त्वयि दधानीति पिता कर्माणि ते मयि दध इति पुत्रः । सुखदुःखे मे त्वयि दधानीति पिता सुखदुःखे ते मयि दध इति पुत्रः । आनन्दं रतिं प्रजातिं मे त्वयि दधानीति पिता आनन्दं रतिं प्रजातिं ते मयि दध इति पुत्रः । इत्या मे त्वयि दधानीति पिता इत्या ते मयि दध इति पुत्रः । धियो विज्ञातव्यं कामान्मे त्वयि दधानीति पिता धियो विज्ञातव्यं कामांस्ते मयि दध इति पुत्रः । अथ दक्षिणावुत्प्राङुपनिष्क्रामति तं पितानुमन्त्रयते यशो ब्रह्मवर्चसमन्नाद्यं कीर्तिस्त्वा जुषतामित्यथेतरः सव्यमंसमन्ववेक्षते पाणिनान्तर्धाय वसनान्तेन वा प्रच्छाद्य स्वर्गांल्लोकान्कामानवाप्नुहीति स यद्यगदः स्यात्पुत्रस्यैश्वर्ये पिता वसेत्परि वा व्रजेद्यद्यु वै प्रेयाद्यदेवैनं समापयति तथा समापयितव्यो भवति तथा समापयितव्यो भवति ॥
Musean translation
Machine-assisted translation from Sanskrit. Source transcription by Sanskrit Wikisource contributors, CC BY-SA 4.0.
1 “Breath is Brahman,” Kaushitaki used to say. Of this breath, this Brahman, mind is the messenger, speech the attendant, sight the body, and hearing the herald. All these deities bring tribute to breath, to Brahman, though it asks for nothing. In the same way, all beings bring tribute, unasked, to one who knows this. Its secret teaching is: do not beg. If someone has begged in a village and received nothing, let him sit down, thinking, “I will not eat anything given from here.” The very people who first turned him away then invite him: “Let us give to you.” This is the rule for one who begs. Yet from elsewhere, too, people invite him: “Let us give to you.”
2 “Breath is Brahman,” Paingya used to say. Speech encloses sight beyond itself; sight encloses hearing beyond itself; hearing encloses mind beyond itself; mind encloses breath beyond itself. All these deities bring tribute to this breath, this Brahman, though it asks for nothing. In the same way, all beings bring tribute, unasked, to one who knows this. Its secret teaching is: do not beg. If someone has begged in a village and received nothing, let him sit down, thinking, “I will not eat anything given from here.” The very people who first turned him away then invite him: “Let us give to you.” This is the rule for one who is asked. Yet from elsewhere, too, people invite him: “Let us give to you.”
3 Now, the securing of a particular possession. If someone desires a particular possession, on the full moon or the new moon, or during the bright fortnight under an auspicious star, let him kindle a fire, sweep around it, spread sacred grass, sprinkle water around it, and bend his right knee forward. With a sacrificial ladle, a cup, or a metal bowl, let him offer these oblations of clarified butter: “Speech is the deity that secures. May it secure this for me from that person. To it, svaha! Breath is the deity that secures. May it secure this for me from that person. To it, svaha! Sight is the deity that secures. May it secure this for me from that person. To it, svaha! Hearing is the deity that secures. May it secure this for me from that person. To it, svaha! Mind is the deity that secures. May it secure this for me from that person. To it, svaha! Awareness is the deity that secures. May it secure this for me from that person. To it, svaha!” Then, after smelling the smoke and rubbing his limbs with the butter that remains, let him go in silence and state his purpose, or send a messenger. He obtains it.
4 Now, the divine rite of remembrance. If someone wishes to be dear to a man or a woman, let him kindle a fire at one of those same turning points of the moon and, following the same procedure, offer these oblations of clarified butter: “I offer speech into myself, O named one. Svaha! I offer your sight into myself, O named one. Svaha! I offer your hearing into myself, O named one. Svaha! I offer your mind into myself, O named one. Svaha! I offer your awareness into myself, O named one. Svaha!” Then, after smelling the smoke and rubbing his limbs with the butter that remains, let him go in silence and seek bodily contact, or stand speaking where the wind blows toward that person. He becomes dear to them; they remember him.
5 Now, the evening food-offering, also called Pratardana’s inner fire-offering. While a person speaks, he cannot breathe: then he offers breath into speech. While a person breathes, he cannot speak: then he offers speech into breath. These are two endless, immortal offerings. Waking and sleeping, he offers them continually, without a break. Other offerings have an end, for they consist of acts. Knowing this, the ancient sages did not perform the fire-offering.
6 “The recitation is Brahman,” Shushkabhringara used to say. Let one meditate on it as a Rigvedic verse: all beings honor him as foremost. Let one meditate on it as a sacrificial formula: all beings join themselves to him as foremost. Let one meditate on it as a chant: all beings bow before him as foremost. Let one meditate on it as splendor; let one meditate on it as renown; let one meditate on it as radiance. Just as this is the most splendid, renowned, and radiant of recitations, so one who knows this becomes the most splendid, renowned, and radiant of all beings. The Adhvaryu priest prepares this self, made of bricks and ritual acts. Into it he weaves what is made of sacrificial formulas; into that fabric of formulas, the Hotri priest weaves what is made of verses; into that fabric of verses, the Udgatri priest weaves what is made of chants. This is the self of the whole threefold Vedic knowledge, and this is his own self. One who knows this comes to have this as his self.
7 Now, the three devotions of Sarvajit Kaushitaki. Having put on his sacred thread and sipped water, let one pour water three times from a vessel and worship the rising sun: “You are the remover; remove my evil.” By the same procedure, let him worship it at midday: “You are the remover on high; remove my evil.” By the same procedure, let him worship it as it sets: “You are the gatherer; gather away my evil.” Whatever evil he commits by day and night, he wipes away.
8 Then, month by month at the new moon, let him worship the moon when it appears in the west, following the same procedure and addressing it with two green blades of grass: “Your heart, so fair of outline, rests within the moon. Through it, O lord of immortality, may I never weep over a grandson’s misfortune.” His offspring do not depart before him. This is for one who has a son. One who has no son recites these three verses: “Grow full; let it unite with you”; “Let your milk unite, let nourishment come together”; “The stalk that the Adityas cause to swell.” Then: “Do not grow full through our breath, our offspring, or our cattle. Grow full through the breath, offspring, and cattle of one who hates us and whom we hate.” Saying, “I turn with the divine turning; I follow the turning of the sun,” he turns his right arm with it.
9 Then, at the full moon, let him worship the moon when it appears in the east, following the same procedure: “You are King Soma, the far-seeing. You are Prajapati, with five mouths. The brahmin is one of your mouths; with that mouth you eat kings. With that mouth make me an eater of food. The king is one of your mouths; with that mouth you eat the common people. With that mouth make me an eater of food. The falcon is one of your mouths; with that mouth you eat birds. With that mouth make me an eater of food. Fire is one of your mouths; with that mouth you eat this world. With that mouth make me an eater of food. In you is the fifth mouth; with that mouth you eat all beings. With that mouth make me an eater of food. Do not wane through our breath, our offspring, or our cattle. Wane through the breath, offspring, and cattle of one who hates us and whom we hate.” Saying, “I turn with the divine turning; they follow the turning of the sun,” he turns his right arm with it.
10 Then, as he lies down, let him touch his wife’s heart: “What is placed within your fair-bordered heart, within Prajapati—I believe I know it. Through it, may I never weep over a grandson’s misfortune.” His offspring do not depart before him.
11 Then, when setting out on a journey, let him touch his son’s head: “From limb to limb you come into being; from the heart you are born. You are my Self, my son; you have protected me. Live a hundred autumns, O named one.” Here he speaks the boy’s name. “Be a stone; be an axe; be gold unconquered. Radiance is what you are called, my son. Live a hundred autumns, O named one.” Here he speaks his name. “With that which Prajapati used to embrace his creatures for their safety, I embrace you, O named one.” Here he speaks his name. Then he whispers into the boy’s right ear, “Grant to him, generous lord, drinker of the pressed juice,” and into the left, “Indra, bestow the finest treasures.” “Do not be cut off; do not come to harm. Live a hundred autumns of life, my son. With your name I smell your head, O named one.” Let him smell his head three times. Saying, “With the lowing of cows I low over you,” let him low over the boy’s head three times.
12 Now, the dying of the deities around one. This Brahman shines when fire blazes; it dies when fire no longer blazes. Its radiance goes into the sun, its breath into the wind. This Brahman shines when the sun is seen; it dies when the sun is no longer seen. Its radiance goes into the moon, its breath into the wind. This Brahman shines when the moon is seen; it dies when the moon is no longer seen. Its radiance goes into lightning, its breath into the wind. This Brahman shines when lightning flashes; it dies when lightning no longer flashes. Its radiance goes into the wind, its breath into the wind. All these deities enter the wind. Though dead within the wind, they do not perish: from it they rise again. So much for the deities; now for the self.
13 This Brahman shines when one speaks with speech; it dies when one no longer speaks. Its radiance goes into sight, its breath into breath. This Brahman shines when one sees with sight; it dies when one no longer sees. Its radiance goes into hearing, its breath into breath. This Brahman shines when one hears with hearing; it dies when one no longer hears. Its radiance goes into mind, its breath into breath. This Brahman shines when one thinks with mind; it dies when one no longer thinks. Its radiance goes into breath, its breath into breath. All these deities enter breath. Though dead within breath, they do not perish: from it they rise again. If the two mountains, the southern and the northern, should roll toward one who knows this, seeking to crush him, they would not lay him low. But those who hate him, and those whom he himself hates, all die around him.
14 Now, the attainment of what is highest. All the deities, disputing among themselves, “I am the best,” left this body. It lay like a piece of wood. Speech entered it; speaking with speech, it still lay there. Sight entered it; speaking with speech and seeing with sight, it still lay there. Hearing entered it; speaking with speech, seeing with sight, and hearing with hearing, it still lay there. Mind entered it; speaking with speech, seeing with sight, hearing with hearing, and thinking with mind, it still lay there. Then breath entered it, and at once it rose. Recognizing that the highest good lay in breath, the deities joined themselves to breath, the self of awareness, and together with all these left this world. With wind as their foundation and space as their self, they went to heaven. In the same way, one who knows this joins himself to breath, the self of awareness of all beings, and together with all these leaves this body. With wind as his foundation and space as his self, he does not go to heaven: he becomes that in which those deities are. Attaining it, he becomes immortal, as the deities are immortal.
15 Now, what they call the handing on from father to son. A father about to depart summons his son. Having spread fresh grass through the room, kindled a fire, and set out a pot of water with a bowl, he lies down, wrapped in an unworn cloth. The son comes and lies upon him, touching his father’s sense organs with his own; or he may sit facing him. Then the father hands on what is his.
“I place my speech in you,” says the father. “I place your speech in myself,” says the son.
“I place my breath in you,” says the father. “I place your breath in myself,” says the son.
“I place my sight in you,” says the father. “I place your sight in myself,” says the son.
“I place my hearing in you,” says the father. “I place your hearing in myself,” says the son.
“I place my mind in you,” says the father. “I place your mind in myself,” says the son.
“I place my tastes of food in you,” says the father. “I place your tastes of food in myself,” says the son.
“I place my deeds in you,” says the father. “I place your deeds in myself,” says the son.
“I place my pleasure and pain in you,” says the father. “I place your pleasure and pain in myself,” says the son.
“I place my joy, delight, and power of generation in you,” says the father. “I place your joy, delight, and power of generation in myself,” says the son.
“I place my movements in you,” says the father. “I place your movements in myself,” says the son.
“I place my thoughts, what is to be known, and my desires in you,” says the father. “I place your thoughts, what is to be known, and your desires in myself,” says the son.
Then the son turns to the right and goes out toward the northeast. His father calls after him: “May renown, the radiance of sacred knowledge, the eating of food, and fame favor you.” The son looks back over his left shoulder, shielding himself with his hand or covering himself with the edge of his garment: “May you attain the heavenly worlds and your desires.” If the father recovers, he should live under his son’s authority or go forth as a wanderer. If he dies, the rites that bring him to his end must be completed for him in that very manner; they must be completed in that very manner.
Plain English translation
Independent machine-assisted translation from Sanskrit. Source transcription by Sanskrit Wikisource contributors, CC BY-SA 4.0.
1 Kaushitaki used to say, "Breath is Brahman." Mind is the messenger of this breath that is Brahman. Speech serves it, sight is its body, and hearing brings it reports. All these deities bring offerings to this breath that is Brahman without being asked. In the same way, all beings bring offerings, without being asked, to someone who knows this. Its secret teaching is: "Do not ask." For example, after begging in a village and receiving nothing, he should sit down, thinking, "I will not eat anything given from here." The very people who turned him away before then invite him, saying, "We will give to you." This is what happens to someone who asks. But people from elsewhere also invite him, saying, "We will give to you."
2 Paingya used to say, "Breath is Brahman." Speech secures sight beyond itself; sight secures hearing beyond itself; hearing secures mind beyond itself; mind secures breath beyond itself. All these deities bring offerings to this breath that is Brahman without being asked. In the same way, all beings bring offerings, without being asked, to someone who knows this. Its secret teaching is: "Do not ask." For example, after begging in a village and receiving nothing, he should sit down, thinking, "I will not eat anything given from here." The very people who turned him away before then invite him, saying, "We will give to you." This is what happens to someone who has been asked. But people from elsewhere also invite him, saying, "We will give to you."
3 Now, the way to obtain a particular possession. When someone has a particular possession in mind, he should prepare a fire at the full moon, at the new moon, or during the bright half of the month under a favorable lunar constellation. He should sweep around it, spread grass around it, sprinkle water around it, and bend his right knee forward. With a small offering ladle, a cup, or a metal bowl, he offers these offerings of clarified butter: "The deity named Speech obtains things. May it obtain this for me from that person. Hail to it! The deity named Breath obtains things. May it obtain this for me from that person. Hail to it! The deity named Sight obtains things. May it obtain this for me from that person. Hail to it! The deity named Hearing obtains things. May it obtain this for me from that person. Hail to it! The deity named Mind obtains things. May it obtain this for me from that person. Hail to it! The deity named Awareness obtains things. May it obtain this for me from that person. Hail to it!" Then he should inhale the smell of the smoke, rub his limbs with the remaining clarified butter, and go forward without speaking. He should state what he wants or send a messenger. He will obtain it.
4 Now, the divine way to make someone think of you. If a man wants to be dear to a man or a woman, he should prepare a fire on one of those same festival occasions. Following the same procedure, he offers these offerings of clarified butter: "So-and-so, I offer speech into myself. Hail! So-and-so, I offer your sight into myself. Hail! So-and-so, I offer your hearing into myself. Hail! So-and-so, I offer your mind into myself. Hail! So-and-so, I offer your awareness into myself. Hail!" Then he should inhale the smell of the smoke, rub his limbs with the remaining clarified butter, and go forward without speaking. He should try to make contact with that person, or stand upwind, talking. He becomes dear to that person, and they think of him.
5 Now, Pratardana's evening food-offering, which they also call the internal fire offering. While a person is speaking, he cannot breathe. At that time he offers breath into speech. While a person is breathing, he cannot speak. At that time he offers speech into breath. These are two endless, immortal offerings. Awake or asleep, he offers them continually, without a break. Other offerings have an end, because they consist of ritual actions. Knowing this, the learned people of earlier times did not perform the fire offering.
6 Shushkabhringara used to say, "The recitation is Brahman." One should meditate on it as a Rig verse. All beings honor such a person as the best. One should meditate on it as a Yajur formula. All beings join themselves to such a person so that he may be the best. One should meditate on it as a Saman chant. All beings bow to such a person as the best. One should meditate on it as prosperity. One should meditate on it as fame. One should meditate on it as brilliance. Just as this is the most prosperous, most famous, and most brilliant of the recitations, so someone who knows this becomes the most prosperous, most famous, and most brilliant of all beings. The Adhvaryu priest prepares this body, made of bricks and ritual action. Into it he weaves what is made of Yajur formulas. Into what is made of Yajur formulas, the Hotri priest weaves what is made of Rig verses. Into what is made of Rig verses, the Udgatri priest weaves what is made of Saman chants. This is the Self of the whole threefold sacred knowledge. This is also his own Self. Someone who knows this has this as his Self.
7 Now, there are three acts of worship taught by Sarvajit Kaushitaki. Wearing the sacred thread over his left shoulder, sipping water, and pouring water from a vessel three times, a man should face the rising sun and say, "You are the remover. Remove my wrongdoing." Following the same procedure, he should face the sun at midday and say, "You are the upward remover. Remove my wrongdoing." Following the same procedure, he should face the setting sun and say, "You are the complete remover. Completely remove my wrongdoing." This removes the wrong he does during the day and night.
8 Each month, at the new moon, he should face the moon when it is visible in the west. Following the same procedure, and using two green blades of grass, he directs these words toward it: "Through your well-bounded heart that rests in the moon and rules immortality, may I not weep over harm to my grandchildren." His children do not die before him. This is for someone who already has a son. Someone who has no son should recite these three Rig verses: "Grow full; may it unite with you," "May your milks come together; may your strengths come together," and "The stalk that the Adityas cause to grow full." Then he says, "Do not grow full at the cost of our breath, children, or cattle. Grow full at the cost of the breath, children, and cattle of anyone who hates us and anyone we hate. I turn with the gods' course." He makes his right arm follow the sun's course, turning it around.
9 At the full moon, he should face the moon when it is visible in the east. Following the same procedure, he says, "You are King Soma, who sees clearly. You have five mouths. You are Prajapati. The brahmin is one of your mouths. With that mouth you eat kings. With that mouth make me an eater of food. The king is one of your mouths. With that mouth you eat the common people. With that very mouth make me an eater of food. The falcon is one of your mouths. With that mouth you eat birds. With that mouth make me an eater of food. Fire is one of your mouths. With that mouth you eat this world. With that mouth make me an eater of food. In you is a fifth mouth. With that mouth you eat all beings. With that mouth make me an eater of food. Do not wane at the cost of our breath, children, or cattle. Wane at the cost of the breath, children, and cattle of anyone who hates us and anyone we hate. I turn with the gods' course." He turns his right arm around, following the sun's course.
10 When lying down, he should touch his wife's heart and say, "What is placed in your well-bounded heart, inside Prajapati—I think I know it. Through it, may I not weep over harm to my grandchildren." His children do not die before him.
11 When he is about to go away, he should stroke his son's head: "You come from every limb. You are born from the heart. You are the Self, son; you have protected me. Live a hundred autumns, so-and-so." He says his son's name. "Be a stone. Be an axe. Be gold that cannot be harmed. You are brilliance under the name of son. Live a hundred autumns, so-and-so." He says his son's name. "With the embrace with which Prajapati embraced his children to keep them safe, I embrace you, so-and-so." He says his son's name. Then he murmurs into the boy's right ear, "Generous one, rich in Soma juice, give to him," and into his left, "Indra, give him the best riches." Then: "Do not be cut off. Do not be hurt. Live out a life of a hundred autumns, son. With your name I smell your head, so-and-so." He should smell the crown of his head three times. Saying, "I hum toward you with the humming sound of cows," he should hum toward the crown of his head three times.
12 Now, the dying away of the gods. This Brahman shines when fire burns. It dies when fire does not burn. Its light goes to the sun, and its breath to the wind. This Brahman shines when the sun is visible. It dies when the sun is not visible. Its light goes to the moon, and its breath to the wind. This Brahman shines when the moon is visible. It dies when the moon is not visible. Its light goes to lightning, and its breath to the wind. This Brahman shines when lightning flashes. It dies when lightning does not flash. Its light goes to the wind, and its breath to the wind. All these deities enter the wind. Though dead in the wind, they do not perish. From it they rise again. That is how it is with the gods. Now, how it is within a person.
13 This Brahman shines when a person speaks with speech. It dies when he does not speak. Its light goes to sight, and its breath to breath. This Brahman shines when he sees with sight. It dies when he does not see. Its light goes to hearing, and its breath to breath. This Brahman shines when he hears with hearing. It dies when he does not hear. Its light goes to mind, and its breath to breath. This Brahman shines when he thinks with mind. It dies when he does not think. Its light goes to breath, and its breath to breath. All these deities enter breath. Though dead in breath, they do not perish. From it they rise again. If the two mountains, the southern one and the northern one, were to roll toward someone who knows this, trying to crush him, they would not crush him. But everyone who hates him and everyone he himself hates dies around him.
14 Now, gaining the highest good. All the deities were arguing, each saying, "I am better." They left this body, and it lay there like a piece of wood. Speech entered it. It spoke with speech but still lay there. Sight entered it. It spoke with speech and saw with sight but still lay there. Hearing entered it. It spoke with speech, saw with sight, and heard with hearing but still lay there. Mind entered it. It spoke with speech, saw with sight, heard with hearing, and thought with mind but still lay there. Breath entered it. At once it stood up. The gods recognized that the highest good was in breath. They united with breath, the Self that is awareness, and together with all these faculties left this world. With wind as their support and space as their Self, they went to heaven. In the same way, someone who knows this unites with breath, the Self of all beings that is awareness, and together with all these faculties leaves this body. With wind as his support and space as his Self, he does not go to heaven. He becomes that in which these gods are. On reaching it, he becomes immortal, as the gods are immortal.
15 Now, what they call the transfer from father to son. A father who intends to depart calls his son. He spreads fresh grass through the house, prepares a fire, and sets a water jar with a cup nearby. He covers himself with an unworn cloth and lies down. His son comes and lies on top of him, touching his own organs to his father's organs. Or he may simply sit facing him. Then the father hands these things over to him. The father says, "Let me place my speech in you." The son says, "I place your speech in me." The father says, "Let me place my breath in you." The son says, "I place your breath in me." The father says, "Let me place my sight in you." The son says, "I place your sight in me." The father says, "Let me place my hearing in you." The son says, "I place your hearing in me." The father says, "Let me place my mind in you." The son says, "I place your mind in me." The father says, "Let me place the flavors of my food in you." The son says, "I place the flavors of your food in me." The father says, "Let me place my actions in you." The son says, "I place your actions in me." The father says, "Let me place my pleasure and pain in you." The son says, "I place your pleasure and pain in me." The father says, "Let me place my joy, sexual pleasure, and procreation in you." The son says, "I place your joy, sexual pleasure, and procreation in me." The father says, "Let me place my movements in you." The son says, "I place your movements in me." The father says, "Let me place my thoughts, what is to be known, and my desires in you." The son says, "I place your thoughts, what is to be known, and your desires in me." Then the son goes around to the right and goes out toward the northeast. The father calls after him, "May honor, the brilliance of sacred knowledge, food to eat, and a good name come to you." The son looks back over his left shoulder, putting his hand between them or covering himself with the end of his cloth, and says, "May you reach the heavenly worlds and obtain what you desire." If the father is healthy, he should live under his son's authority or leave home to wander. But if he dies, he must be given his final rites in whatever way his son performs them. He must be given his final rites in that way.
About this section
Adhyaya 2 is part of Kaushitaki Upanishad by Unknown. This page sets the Sanskrit original beside 2 direct-source translations, so any line can be checked against the source. It is section 2 of 4 in the work, which is kept in the Hindu tradition.
Open the work page for the full contents, every edition, and the download links, or go back to Explore to browse other complete works in the Hindu tradition. The reader keeps your place when you are signed in and lets you compare the original with each translation, one edition at a time.