### Book One · On Absorption (Samādhi Pāda) 1.1 अथ योगानुशासनम् 1.2 योगश्चित्तवृत्तिनिरोधः 1.3 तदा द्रष्टुः स्वरूपेऽवस्थानम् 1.4 वृत्तिसारूप्यं इतरत्र 1.5 वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः 1.6 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः 1.7 प्रत्यक्षानुमानागमाः प्रमाणानि 1.8 विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठं 1.9 शब्दज्ञानानुपाती वस्तुशून्यो विकल्पाः 1.10 अभावप्रत्ययालम्बना वृत्तिर्निद्रा 1.11 अनुभूतविषयासंप्रमोषः स्मृतिः 1.12 अभ्यासवैराग्याभ्यां तन्निरोधः 1.13 तत्र स्थितौ यत्नोऽभ्यासः 1.14 स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः 1.15 दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् 1.16 तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यं 1.17 वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः 1.18 विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः 1.19 भवप्रत्ययो विदेहप्रकृतिलयानां 1.20 श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां 1.21 तीव्रसंवेगानां आसन्नः 1.22 मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः 1.23 ईश्वरप्रणिधानाद्वा 1.24 क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः 1.25 तत्र निरतिशयं सर्वज्ञबीजं 1.26 पूर्वेषां अपि गुरुः कालेनानवच्छेदात् 1.27 तस्य वाचकः प्रणवः 1.28 तज्जपस्तदर्थभावनम् 1.29 ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च 1.30 व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभुउमिकत्वानवस्थितत्वानि चित्तविक्षेपास्. तेऽन्तरायाः 1.31 दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः 1.32 तत्प्रतिषेधार्थं एकतत्त्वाभ्यासः 1.33 मैत्रीकरुणामुदितोपेक्षणांसुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् 1.34 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य 1.35 विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी 1.36 विशोका वा ज्योतिष्मती 1.37 वीतरागविषयं वा चित्तं 1.38 स्वप्ननिद्राज्ञानालम्बनम् वा 1.39 यथाभिमतध्यानाद्वा 1.40 परमाणुपरममहत्त्वान्तोऽस्य वशीकारः 1.41 क्षीणवृत्तेर्, अभिजातस्येव मणेर्, ग्रहीतृग्रहणग्राह्येषुतत्स्थतदञ्जनतासमापत्तिः 1.42 तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः 1.43 स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का 1.44 एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता 1.45 सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् 1.46 ता एव सबीजः समाधिः 1.47 निर्विचारवैशारद्येऽध्यात्मप्रसादः 1.48 र्तंभरा तत्र प्रज्ञा 1.49 श्रुतानुमानप्रज्ञाभ्यां अन्यविषया विशेषार्थत्वात् 1.50 तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी 1.51 तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ### Book Two · On Practice (Sādhana Pāda) 2.1 तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः 2.2 समाधिभावनार्थः क्लेशतनूकरणार्थश्च 2.3 अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः 2.4 अविद्या क्षेत्रं उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणां 2.5 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या 2.6 दृग्दर्शनशक्त्योरेकात्मतेवास्मिता 2.7 सुखानुशयी रागः 2.8 दुःखानुशयी द्वेषः 2.9 स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः 2.10 ते प्रतिप्रसवहेयाः सूक्ष्माः 2.11 ध्यानहेयास्तद्वृत्तयः 2.12 क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः 2.13 सति मूले तद्विपाको जात्यायुर्भोगाः 2.14 ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् 2.15 परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः 2.16 हेयं दुःखं अनागतं 2.17 द्रष्टृदृश्ययोः संयोगो हेयहेतुः 2.18 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थंदृश्यं 2.19 विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि 2.20 द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः 2.21 तदर्थ एव दृश्यस्यात्मा 2.22 कृतार्थं प्रति नष्टं अप्यनष्टं तद्, अन्यसाधारणत्वात् 2.23 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः 2.24 तस्य हेतुरविद्या 2.25 तदभावात्संयोगाभावो हानं. तद्दृशेः कैवल्यं 2.26 विवेकख्यातिरविप्लवा हानोपायः 2.27 तस्य सप्तधा प्रान्तभूमिः प्रज्ञा 2.28 योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिर्, आविवेकख्यातेः 2.29 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि 2.30 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः 2.31 जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतं 2.32 शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः 2.33 वितर्कबाधने प्रतिपक्षभावनं 2.34 वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वकामृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इतिप्रतिपक्षभावनं 2.35 अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः 2.36 सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वं 2.37 अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानं 2.38 ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः 2.39 अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः 2.40 शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः 2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च 2.42 संतोषादनुत्तमः सुखलाभः 2.43 कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः 2.44 स्वाध्यायादिष्टदेवतासंप्रयोगः 2.45 समाधिसिद्धिरीश्वरप्रणिधानात् 2.46 स्थिरसुखं आसनं 2.47 प्रयत्नशैथिल्यानन्तसमापत्तिभ्यां 2.48 ततो द्वन्द्वानभिघातः 2.49 तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः 2.50 बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिःपरिदृष्टो दीर्घसूक्ष्मः 2.51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः 2.52 ततः क्षीयते प्रकाशावरणं 2.53 धारणासु च योग्यता मनसः 2.54 स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणांप्रत्याहारः 2.55 ततः परमा वश्यतेन्द्रियाणां ### Book Three · On Powers (Vibhūti Pāda) 3.1 देशबन्धश्चित्तस्य धारणा 3.2 तत्र प्रत्ययैकतानता ध्यानं 3.3 तदेवार्थमात्रनिर्भासं स्वरूपशून्यं इव समाधिः 3.4 त्रयं एकत्र संयमः 3.5 तज्जयात्प्रज्ञालोकः 3.6 तस्य भूमिषु विनियोगः 3.7 त्रयं अन्तरङ्गं पूर्वेभ्यः 3.8 तदपि बहिरङ्गं निर्बीजस्य 3.9 व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौनिरोधक्षणचित्तान्वयो निरोधपरिणामः 3.10 तस्य प्रशान्तवाहिता संस्कारात् 3.11 सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः 3.12 ततः पुनः शान्तोदितौ तुल्यप्रत्ययौचित्तस्यैकाग्रतापरिणामः 3.13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः 3.14 शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी 3.15 क्रमान्यत्वं परिणामान्यत्वे हेतुः 3.16 परिणामत्रयसंयमादतीतानागतज्ञानं 3.17 शब्दार्थप्रत्ययानां इतरेतराध्यासात्संकरः.तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानं 3.18 संस्कारसाक्षत्करणात्पूर्वजातिज्ञानं 3.19 प्रत्ययस्य परचित्तज्ञानं 3.20 न च तत्सालम्बनं, तस्याविषयीभूतत्वात् 3.21 कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भेचक्षुःप्रकाशासंप्रयोगेऽन्तर्धानं 3.22 सोपक्रमं निरुपक्रमं च कर्म. तत्संयमादपरान्तज्ञानम्,अरिष्टेभ्यो वा 3.23 मैत्र्यादिषु बलानि 3.24 बलेषु हस्तिबलादीनि 3.25 प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानं 3.26 भुवनज्ञानं सूर्ये संयमात् 3.27 चन्द्रे ताराव्यूहज्ञानं 3.28 ध्रुवे तद्गतिज्ञानं 3.29 नाभिचक्रे कायव्यूहज्ञानं 3.30 कण्ठकूपे क्षुत्पिपासानिवृत्तिः 3.31 कूर्मनाड्यां स्थैर्यं 3.32 मूर्धज्योतिषि सिद्धदर्शनं 3.33 प्रातिभाद्वा सर्वं 3.34 हृदये चित्तसंवित् 3.35 सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगःपरार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानं 3.36 ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते 3.37 ते समाधावुपसर्गा. व्युत्थाने सिद्धयः 3.38 बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्यपरशरीरावेशः 3.39 उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च 3.40 समानजयाज्ज्वलनं 3.41 श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रं 3.42 कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनं 3.43 बहिरकल्पिता वृत्तिर्महाविदेहा. ततः प्रकाशावरणक्षयः 3.44 स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः 3.45 ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च 3.46 रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् 3.47 ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः 3.48 ततो मनोजवित्वं विकरणभावः प्रधानजयश्च 3.49 सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वंसर्वज्ञातृत्वं च 3.50 तद्वैराग्यादपि दोषबीजक्षये कैवल्यं 3.51 स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् 3.52 क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानं 3.53 जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः 3.54 तारकं सर्वविषयं सर्वथाविषयं अक्रमं चेति विवेकजंज्ञानं 3.55 सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यं इति ### Book Four · On Liberation (Kaivalya Pāda) 4.1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः 4.2 जात्यन्तरपरिणामः प्रकृत्यापूरात् 4.3 निमित्तं अप्रयोजकं प्रकृतीनां. वरणभेदस्तु ततः क्षेत्रिकवत् 4.4 निर्माणचित्तान्यस्मितामात्रात् 4.5 प्रवृत्तिभेदे प्रयोजकं चित्तं एकं अनेकेषां 4.6 तत्र ध्यानजं अनाशयं 4.7 कर्माशुक्लाकृष्णं योगिनस्. त्रिविधं इतरेषां 4.8 ततस्तद्विपाकानुगुणानां एवाभिव्यक्तिर्वासनानां 4.9 जातिदेशकालव्यवहितानां अप्यानन्तर्यं, स्मृतिसंस्कारयोरेकरूपत्वात् 4.10 तासां अनादित्वं चाशिषो नित्यत्वात् 4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषां अभावे तदभावः 4.12 अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणां 4.13 ते व्यक्तसूक्ष्मा गुणात्मानः 4.14 परिणामैकत्वाद्वस्तुतत्त्वं 4.15 वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः 4.16 न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् 4.17 तदुपरागापेक्षत्वात् चित्तस्य वस्तु ज्ञाताज्ञातं 4.18 सदा ज्ञाताश्चित्तवृत्तयस्, तत्प्रभोः पुरुषस्यापरिणामित्वात् 4.19 न तत्स्वाभासं, दृश्यत्वात् 4.20 एकसमये चोभयानवधारणं 4.21 चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च 4.22 चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनं 4.23 द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थं 4.24 तदसंख्येयवासनाचित्रं अपि परार्थं, संहत्यकारित्वात् 4.25 विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः 4.26 तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तं 4.27 तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः 4.28 हानं एषां क्लेशवदुक्तं 4.29 प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघःसमाधिः 4.30 ततः क्लेशकर्मनिवृत्तिः 4.31 तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयं अल्पं 4.32 ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर् गुणानां 4.33 क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः 4.34 पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं,स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति