### Section 1 ॥ नमो भगवत्या आर्यप्रज्ञापारमितायै ॥ एवं मया श्रुतम् । एकस्मिन्समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः । अथ खलु भगवान्पूर्वाह्णकालसमये निवास्य पात्रचीवरमादाय श्रावस्तीं महानगरीं पिंडाय प्राविक्षत् । अथ खलु भगवाञ्श्रावस्तीं महानगरीं पिंडाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिंडपातप्रतिक्रांतः पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाल्य न्यषीदत्प्रज्ञप्त एवासने पर्यंकमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखीं स्मृतिमुपस्थाय । अथ खलु संबहुला भिक्षवो येन भगवांस्तेनोपसंक्रमन् उपसंक्रम्य भगवतः पादौ शिरोभिरभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्यैकांते न्यषीदन् ॥१॥ ### Section 2 तेन खलु पुनः समयेनायुष्मान्सुभूतिस्तस्यामेव पर्षदि संनिपतितोऽभूत्संनिषण्णः । अथ खल्वायुष्मान्सुभूतिरुत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाय येन भगवांस्तेनांजलिं प्रणम्य भगवंतमेतदवोचत् । आश्चर्यं भगवन्परमाश्चर्यं सुगत यावदेव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वा महासत्त्वा अनुपरिगृहीताः परमेणानुग्रहेण । आश्चर्यं भगवन्यावदेव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वा महासत्त्वाः परींदिताः परमया परींदनया । तत्कथं भगवन्बोधिसत्त्वयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहिता वा स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यं ॥ एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् । साधु साधु सुभूते एवमेतत्सुभूते एवमेतद्यथा वदसि । अनुपरिगृहीतास्तथागतेन बोधिसत्त्वा महासत्त्वाः परमेणानुग्रहेण परींदितास्तथागतेन बोधिसत्त्वा महासत्त्वाः परमया परींदनया । तेन हि सुभूते शृणु साधु च सुष्ठु च मनसिकुरु । भाषिष्येऽहं ते यथा बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यं यथा प्रतिपत्तव्यं यथा चित्तं प्रग्रहीतव्यं । एवं भगवन्नित्यायुष्मान्सुभूतिर्भगवतः प्रत्यश्रौषीत् ॥२॥ ### Section 3 भगवानस्यैतदवोचत् । इह सुभूते बोधिसत्त्वयानसंप्रस्थितेनैवं चित्तमुत्पादयितव्यं यावंतः सुभूते सत्त्वाः सत्त्वधातौ सत्त्वसंग्रहेण संगृहीता अंडजा वा जरायुजा वा संस्वेदजा वौपपादुका वा रूपिणो वारूपिणो वा संज्ञिनो वासंज्ञिनो वा नैव संज्ञिनो नासंज्ञिनो वा यावान्कश्चित्सत्त्वधातुप्रज्ञप्यमानः प्रज्ञप्यते ते च मया सर्वेऽनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः । एवमपरिमाणानपि सत्त्वान्परिनिर्वाप्य न कश्चित्सत्त्वः परिनिर्वापितो भवति । तत्कस्य हेतोः । सचेत्सुभूते बोधिसत्त्वस्य सत्त्वसंज्ञा प्रवर्तेत न स बोधिसत्त्व इति वक्तव्यः । तत्कस्य हेतोः । न स सुभूते बोधिसत्त्वो वक्तव्यो यस्य सत्त्वसंज्ञा प्रवर्तेत जीवसंज्ञा वा पुद्गलसंज्ञा वा प्रवर्तेत ॥३॥ ### Section 4 अपि तु खलु पुनः सुभूते न बोधिसत्त्वेन वस्तुप्रतिष्ठितेन दानं दातव्यं न क्वचित्प्रतिष्ठितेन दानं दातव्यं न रूपप्रतिष्ठितेन दानं दातव्यं न शब्दगंधरसस्प्रष्टव्यधर्मेषु प्रतिष्ठितेन दानं दातव्यं । एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानं दातव्यं यथा न निमित्तसंज्ञायामपि प्रतितिष्ठेत् । तत्कस्य हेतोः । यः सुभूते बोधिसत्त्वो ऽप्रतिष्ठितो दानं ददाति तस्य सुभूते पुण्यस्कंधस्य न सुकरं प्रमाणमुद्ग्रहीतुं । तत्किं मन्यसे सुभूते सुकरं पूर्वस्यां दिश्याकाशस्य प्रमाणमुद्ग्रहीतुं । सुभूतिराह । नो हीदं भगवन् । भगवानाह । एवं दक्षिणपश्चिमोत्तरास्वध ऊर्ध्वं दिग्विदिक्षु समंताद्दशसु दिक्षु सुकरमाकाशस्य प्रमाणमुद्ग्रहीतुं । सुभूतिराह । नो हीदं भगवन् । भगवानाह । एवमेव सुभूते यो बोधिसत्त्वोऽप्रतिष्ठितो दानं ददाति तस्य सुभूते पुण्यस्कंधस्य न सुकरं प्रमाणमुद्ग्रहीतुं । एवं हि सुभूते बोधिसत्त्वयानसंप्रस्थितेन दानं दातव्यं यथा न निमित्तसंज्ञायामपि प्रतितिष्ठेत् ॥४॥ ### Section 5 तत्किं मन्यसे सुभूते लक्षणसंपदा तथागता द्रष्टव्यः । सुभूतिराह । नो हीदं भगवन् न लक्षणसंपदा तथागतो द्रष्टव्यः । तत्कस्य हेतोः । या सा भगवन् लक्षणसंपत्तथागतेन भाषिता सैवालक्षणसंपत् । एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् । यावत्सुभूते लक्षणसंपन्नावन्मृषा यावदलक्षणसंपन्नावन्न मृषेति हि लक्षणालक्षणतस्तथागतो द्रष्टव्यः ॥५॥ ### Section 6 एवमुक्ते आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । अस्ति भगवन्केचित्सत्त्वा भविष्यंत्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां सद्धर्मविप्रलोपकाले वर्तमाने य इमेष्वेववंरूपेषु सूत्रांतपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यंति । भगवानाह । मा सुभूते त्वमेवं वोचः । अस्ति केचित्सत्त्वा भविष्यंत्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां सद्धर्मविप्रलोपे वर्तमाने य इमेष्वेववंरूपेषु सूत्रांतपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यंति । अपि तु खलु पुनः सुभूते भविष्यत्यनागतेऽध्वनि बोधिसत्त्वा महासत्त्वाः पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां सद्धर्मविप्रलोपे वर्तमाने गुणवंतः शीलवंतः प्रज्ञावंतश्च भविष्यंति य इमेष्वेववंरूपेषु सूत्रांतपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यंति । न खलु पुनस्ते सुभूते बोधिसत्त्वा महासत्त्वा एकबुद्धपर्युपासिता भविष्यंति नैकबुद्धावरोपितकुशलमूला भविष्यंति अपि तु खलु पुनः सुभूते अनेकबुद्धशतसहस्रपर्युपासिता अनेकबुद्धशतसहस्रावरोपितकुशलमूलास्ते बोधिसत्त्वा महासत्त्वा भविष्यंति य इमेष्वेववंरूपेषु सूत्रांतपदेषु भाष्यमाणेष्वेकचित्तप्रसादमपि प्रतिलप्स्यंते । ज्ञातास्ते सुभूते तथागतेन बुद्धज्ञानेन दृष्टास्ते सुभूते तथागतेन बुद्धचक्षुषा बुद्धास्ते सुभूते तथागतेन । सर्वे ते सुभूतेऽप्रमेयमसंख्येयं पुण्यस्कंधं प्रसविष्यंति प्रतिगृहीष्यंति । तत्कस्य हेतोः । न हि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानामात्मसंज्ञा प्रवर्तते न सत्त्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा प्रवर्तते । नापि तेषां सुभूते बोधिसत्त्वानां महासत्त्वानां धर्मसंज्ञा प्रवर्तते । एवं नाधर्मसंज्ञा । नापि तेषां सुभूते संज्ञा नासंज्ञा प्रवर्तते । तत्कस्य हेतोः । सचेत्सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां धर्मसंज्ञा प्रवर्तेत स एव तेषामात्मग्राहो भवेत्सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो भवेत् । सचेदधर्मसंज्ञा प्रवर्तेत स एव तेषामात्मग्राहो भवेत्सत्त्वग्राहो जीवग्राहः पुद्गलग्राह इति । तत्कस्य हेतोः । न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मं उद्ग्रहीतव्यो नाधर्मः । तस्मादियं तथागतेन संधाय वाग्भाषिता । कोलोपमं धर्मपर्यायमाजानद्भिर्धर्मा एव प्रहातव्याः प्रागेवाधर्मा इति ॥६॥ ### Section 7 पुनरपरं भगवानायुष्मंतं सुभूतिमेतदवोचत् । तत्किं मन्यसे सुभूते अस्ति स कश्चिद्धर्मो यस्तथागतेनानुत्तरां सम्यक्संबोधिरित्यभिसंबुद्धः । कश्चिद्वा धर्मस्तथागतेन देशितः । एवमुक्ते आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । यथाहं भगवन्भगवतो भाषितस्यार्थमाजानामि नास्ति स कश्चिद्धर्मो यस्तथागतेनानुत्तरा सम्यक्संबोधिरित्यभिसंबुद्धः । नास्ति धर्मो यस्तथागतेन देशितः । तत्कस्य हेतोः । योऽसौ तथागतेन धर्मोऽभिसंबुद्धो देशितो वा ग्राह्यः सोऽनभिलप्यः । न स धर्मो नाधर्मः । तत्कस्य हेतोः । असंस्कृतप्रभाविता ह्यार्यपुद्गलाः ॥७॥ ### Section 8 भगवानाह । तत्किं मन्यसे सुभूते यः कश्चित्कुलपुत्रो वा कुलदुहिता वेमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्यात् । अपि नु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहु पुण्यस्कंधं प्रसुनुयात् । सुभूतिराह । बहु भगवन् बहु सुगत स कुलपुत्रो वा कुलदुहिता वा ततो निदानं पुण्यस्कंधं प्रसुनुयात् । तत्कस्य हेतोः । योऽसौ भगवन्पुण्यस्कंधस्तथागतेन भाषितः अस्कंधः स तथागतेन भाषितः । तस्मात्तथागतो भाषते पुण्यस्कंधः पुण्यस्कंध इति । भगवानाह । यश्च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वेमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्यात् यश्चेतो धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो विस्तरेण देशयेत्संप्रकाशयेदयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं । तत्कस्य हेतोः । अतो निर्जाता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानामनुत्तरा सम्यक्संबोधिरतो निर्जाताश्च बुद्धा भगवंतः । तत्कस्य हेतोः । बुद्धधर्मा बुद्धधर्मा इति सुभूतेऽबुद्धधर्माश्चैव ते तथागतेन भाषिताः । तेनोच्यंते बुद्धधर्मा इति ॥८॥ ### Section 9 तत्किं मन्यसे सुभूते अपि नु स्रोतआपन्नस्यैवं भवति मया स्रोतआपत्तिफलं प्राप्नमिति । सुभूतिराह । नो हीदं भगवन् । न स्रोतआपन्नस्यैवं भवति मया स्रोतआपत्तिफलं प्राप्नमिति । तत्कस्य हेतोः । न हि स भगवन्कंचिद्धर्ममापन्नः । तेनोच्यते स्रोतआपन्न इति । न रूपमापन्नो न शब्दान्न गन्धान्न रसान्न स्प्रष्टव्यान्धर्मानापन्नः । तेनोच्यते स्रोतआपन्न इति । सचेद्भगवन्स्रोतआपन्नस्यैवं भवेन्मया स्रोतआपत्तिफलं प्राप्नमिति स एव तस्यात्मग्राहो भवेत् सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो भवेदिति ॥ भगवानाह । तत्किं मन्यसे सुभूते अपि नु सकृदागामिन एवं भवति मया सकृदागामिफलं प्राप्नमिति । सुभूतिराह । नो हीदं भगवन् न सकृदागामिन एवं भवति मया सकृदागामिफलं प्राप्नमिति । तत्कस्य हेतोः । न हि स कश्चिद्धर्मो यः सकृदागामित्वमापन्नः । तेनोच्यते सकृदागामीति ॥ भगवानाह । तत्किं मन्यसे सुभूते अपि न्वनागामिन एवं भवति मयानागामिफलं प्राप्नमिति । सुभूतिराह । नो हीदं भगवन् नानागामिन एवं भवति मयानागामिफलं प्राप्नमिति । तत्कस्य हेतोः । न हि स भगवन्कश्चिद्धर्मो योऽनागामित्वमापन्नः । तेनोच्यतेऽनागामीति ॥ भगवानाह । तत्किं मन्यसे सुभूते अपि न्वर्हत एवं भवति मयार्हत्त्वं प्राप्नमिति । सुभूतिराह । नो हीदं भगवन् नार्हत एवं भवति मयार्हत्त्वं प्राप्नमिति । तत्कस्य हेतोः । न हि स भगवन्कश्चिद्धर्मो योऽर्हन्नाम । तेनोच्यतेऽर्हनिति । सचेद्भगवन्नर्हत एवं भवेन्मयार्हत्त्वं प्राप्नमिति स एव तस्यात्मग्राहो भवेत् सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो भवेत् ॥ तत्कस्य हेतोः । अहमस्मि भगवंस्तथागतेनार्हता सम्यक्संबुद्धेनारणाविहारिणामग्र्यो निर्दिष्टः । अहमस्मि भगवन्नर्हन्वीतरागः । न च मे भगवन्नेवं भवति अर्हन्नस्यहं वीतराग इति । सचेन्मम भगवन्नेवं भवेन्मयार्हत्त्वं प्राप्नमिति न मां तथागतो व्याकरिष्यदरणाविहारिणामग्र्यः सुभूतिः कुलपुत्रो न क्वचिद्विहरति तेनोच्यतेऽरणाविहार्यरणाविहारीति ॥९॥ ### Section 10 भगवानाह । तत्किं मन्यसे सुभूते अस्ति स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यांतिकादुद्गृहीतः । सुभूतिराह । नो हीदं भगवन् नास्ति स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यांतिकादुद्गृहीतः ॥ भगवानाह । यः कश्चित्सुभूते बोधिसत्त्व एवं वदेदहं क्षेत्रव्यूहानिष्पादयिष्यामीति स वितथं वदेत् । तत्कस्य हेतोः । क्षेत्रव्यूहाः क्षेत्रव्यूहा इति सुभूतेऽव्यूहास्ते तथागतेन भाषिताः । तेनोच्यंते क्षेत्रव्यूहा इति ॥ तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनैवमप्रतिष्ठितं चित्तमुत्पादयितव्यं यन्न क्वचित्प्रतिष्ठितं चित्तमुत्पादयितव्यं न रूपप्रतिष्ठितं चित्तमुत्पादयितव्यं न शब्दगंधरसस्प्रष्टव्यधर्मप्रतिष्ठितं चित्तमुत्पादयितव्यं । तद्यथापि नाम सुभूते पुरुषो भवेदुपेतकायो महाकायो यस्यैवंरूप आत्मभावः स्यात् । तद्यथापि नाम सुमेरुः पर्वतराजः । तत्किं मन्यसे सुभूते अपि नु महान्स आत्मभावो भवेत् । सुभूतिराह । महान्स भगवन्महान्सुगत स आत्मभावो भवेत् । तत्कस्य हेतोः । आत्मभाव आत्मभाव इति भगवन्न भावः स तथागतेन भाषितः । तेनोच्यत आत्मभाव इति । न हि भगवन्स भावो नाभावः । तेनोच्यत आत्मभाव इति ॥१०॥ ### Section 11 भगवानाह । तत्किं मन्यसे सुभूते यावत्यो गंगायां महानद्यां वालुकास्तावत्य एव गंगानद्यो भवेयुः तासु या वालुका अपि नु ता बह्व्यो भवेयुः । सुभूतिराह । ता एव तावद्भगवन्बह्व्यो गंगानद्यो भवेयुः प्रागेव यास्तासु गंगानदीषु वालुकाः । भगवानाह । आरोचयामि ते सुभूते प्रतिवेदयामि ते यावत्यस्तासु गंगानदीषु वालुका भवेयुस्तावतो लोकधातून्कश्चिदेव स्त्री वा पुरुषो वा सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः सम्यक्सं बुद्धेभ्यो दानं दद्यात् । तत्किं मन्यसे सुभूते अपि नु सा स्त्री वा पुरुषो वा ततो निदानं बहु पुण्यस्कंधं प्रसुनुयात् । सुभूतिराह । बहु भगवन्बहु सुगत स्त्री वा पुरुषो वा ततो निदानं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं । भगवानाह । यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा तावतो लोकधातून्सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्यात् । यश्च कुलपुत्रो वा कुलदुहिता वेतो धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेत्संप्रकाशयेदयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं ॥११॥ ### Section 12 अपि तु खलु पुनः सुभूते यस्मिन्पृथिवीप्रदेश इतो धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य भाषेत वा संप्रकाशयेत वा स पृथिवीप्रदेशश्चैत्यभूतो भवेत्सदेवमानुषासुरस्य लोकस्य कः पुनर्वादो य इमं धर्मपर्यायं सकलसमाप्तं धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति । परमेण ते सुभूते आश्चर्येण समन्वागता भविष्यंति । तस्मिंश्च सुभूते पृथिवीप्रदेशे शास्ता विहरत्यन्यतरान्यतरो वा विज्ञगुरुस्थानीयः ॥१२॥ ### Section 13 एवमुक्ते आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । को नामायं भगवन्धर्मपर्यायः कथं चैनं धारयामि । एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् । प्रज्ञापारमिता नामायं सुभूते धर्मपर्यायः । एवं चैनं धारय । तत्कस्य हेतोः । यैव सुभूते प्रज्ञापारमिता तथागतेन भाषिता सैवापारमिता तथागतेन भाषिता । तेनोच्यते प्रज्ञापारमितेति ॥ तत्किं मन्यसे सुभूते अपि न्वस्ति स कश्चिद्धर्मो यस्तथागतेन भाषितः । सुभूतिराह । नो हीदं भगवन् नास्ति स कश्चिद्धर्मो यस्तथागतेन भाषितः ॥ भगवानाह । तत्किं मन्यसे सुभूते यावत्त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरजः कच्चिद्बहु भवेत् । सुभूतिराह । बहु भगवन्बहु सुगत पृथिवीरजो भवेत् । तत्कस्य हेतोः । यद्भगवन्पृथिवीरजस्तथागतेन भाषितमरजस्तद्भगवंस्तथागतेन भाषितं । तेनोच्यते पृथिवीरज इति ॥ योऽयमसौ लोकधातुस्तथागतेन भाषितोऽधातुः स तथागतेन भाषितः । तेनोच्यते लोकधातुरिति ॥ भगवानाह । तत्किं मन्यसे सुभूते द्वाचिंशन्महापुरुषलक्षणैस्तथागतोऽर्हन्सम्यक्संबुद्धो द्रष्टव्यः । सुभूतिराह । नो हीदं भगवन् द्वाचिंशन्महापुरुषलक्षणैस्तथागतोऽर्हन्सम्यक्संबुद्धो द्रष्टव्यः । तत्कस्य हेतोः । यानि हि तानि भगवन् द्वाचिंशन्महापुरुषलक्षणानि तथागतेन भाषितान्यलक्षणानि तानि भगवंस्तथागतेन भाषितानि । तेनोच्यंते द्वाचिंशन्महापुरुषलक्षणानीति ॥ भगवानाह । यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा दिने दिने गंगानदीवालुकासमानात्मभावान्परित्यजेत् एवं परित्यजन्गंगानदीवालुकासमान्कल्पांस्तानात्मभावान्परित्यजेत् यश्चेतो धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेत्संप्रकाशयेदयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं ॥१३॥ ### Section 14 अथ खल्वायुष्मान्सुभूतिर्धर्मवेगेनाश्रूणि प्रामुंचत् सोऽश्रूणि प्रमृज्य भगवंतमेतदवोचत् । आश्चर्यं भगवन्परमाश्चर्यं सुगत यावदयं धर्मपर्यायस्तथागतेन भाषितोऽग्रयानसंप्रस्थितानां सत्त्वानामर्थाय श्रेष्ठयानसंप्रस्थितानामर्थाय यतो मे भगवज्ज्ञानमुत्पन्नं । न मया भगवञ्जात्वेवंरूपो धर्मपर्यायः श्रुतपूर्वः । परमेण ते भगवन्नाश्चर्येण समन्वागता बोधिसत्त्वा भविष्यंति य इह सूत्रे भाष्यमाणे श्रुत्वा भूतसंज्ञामुत्पादयिष्यंति । तत्कस्य हेतोः । या चैषा भगवन्भूतसंज्ञा सैवाभूतसंज्ञा । तस्मात्तथागतो भाषते भूतसंज्ञा भूतसंज्ञेति ॥ न मम भगवन्नाश्चर्यं यदाहमिमं धर्मपर्यायं भाष्यमाणमवकल्पयाम्यधिमुच्ये । येऽपि ते भगवन्सत्त्वा भविष्यंत्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां सद्धर्मविप्रलोपे वर्तमाने य इमं भगवन्धर्मपर्यायमुद्गृहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति ते परमाश्चर्येण समन्वागता भविष्यंति ॥ अपि तु खलु पुनर्भगवन्न तेषामात्मसंज्ञा प्रवर्तिष्यते । न सत्त्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा प्रवर्तिष्यते नापि तेषां काचित्संज्ञा नासंज्ञा प्रवर्तते । तत्कस्य हेतोः । या सा भगवन्नात्मसंज्ञा सैवासंज्ञा । या सत्त्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञा सैवासंज्ञा । तत्कस्य हेतोः । सर्वसंज्ञापगता हि बुद्धा भगवंतः ॥ एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् । एवमेतत्सुभूते एवमेतत् । परमाश्चर्यसमन्वागतास्ते सत्त्वा भविष्यंति य इह सुभूते सूत्रे भाष्यमाणे नोत्त्रसिष्यंति न संत्रसिष्यंति न संत्रासमापत्स्यंते । तत्कस्य हेतोः । परमपारमितेयं सुभूते तथागतेन भाषिता यदुतापारमिता । यां च सुभूते तथागतः परमपारमितां भाषते तामपरिमाणा अपि बुद्धा भगवंतो भाषंते । तेनोच्यते परमपारमितेति ॥ अपि तु खलु पुनः सुभूते या तथागतस्य क्षांतिपारमिता सैवापारमिता । तत्कस्य हेतोः । यदा मे सुभूते कलिंगराजाङ्गप्रत्यंगमांसान्यच्छैत्सीत्तस्मिन्समये आत्मसंज्ञा वा सत्त्वसंज्ञा वा जीवसंज्ञा वा पुद्गलसंज्ञा वा नापि मे काचित्संज्ञा वासंज्ञा वा बभूव । तत्कस्य हेतोः । सचेन्मे सुभूते तस्मिन्समये आत्मसंज्ञाभविष्यद्व्यापादसंज्ञापि मे तस्मिन्समयेऽभविष्यत् । सचेत्सत्त्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञाभविष्यद्व्यापादसंज्ञापि मे तस्मिन्समयेऽभविष्यत् । तत्कस्य हेतोः । अभिजानाम्यहं सुभूतेऽतीतेऽध्वनि पंच जातिशतानि यदहं क्षांतिवादी ऋषिरभूवं । तत्रापि मे नात्मसंज्ञा बभूव न सत्त्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा बभूव । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसंज्ञां विवर्जयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितव्यं । न रूपप्रतिष्ठितं चित्तमुत्पादयितव्यं न शब्दगंधरसस्प्रष्टव्यधर्मप्रतिष्ठितं चित्तमुत्पादयितव्यं न धर्मप्रतिष्ठितं चित्तमुत्पादयितव्यं नाधर्मप्रतिष्ठितं चित्तमुत्पादयितव्यं न क्वचित्प्रतिष्ठितं चित्तमुत्पादयितव्यं । तत्कस्य हेतोः । यत्प्रतिष्ठितं तदेवाप्रतिष्ठितं । तस्मादेव तथागतो भाषते अप्रतिष्ठितेन बोधिसत्त्वेन दानं दातव्यं । न रूपशब्दगंधरसस्पर्शधर्मप्रतिष्ठितेन दानं दातव्यं ॥ अपि तु खलु पुनः सुभूते बोधिसत्त्वेनैवंरूपो दानपरित्यागः कर्तव्यः सर्वसत्त्वानामर्थाय । तत्कस्य हेतोः । या चैषा सुभूते सत्त्वसंज्ञा सैवासंज्ञा । य एवं ते सर्वसत्त्वास्तथागतेन भाषितास्त एवासत्त्वाः । तत्कस्य हेतोः । भूतवादी सुभूते तथागतः सत्यवादी तथावादी तथागतः । अनन्यथावादी तथागतः । न वितथवादी तथागतः ॥ अपि तु खलु पुनः सुभूते यस्तथागतेन धर्मोऽभिसंबुद्धो देशितो निध्यातो न तच्च सत्यं न मृषा । तद्यथापि नाम सुभूते पुरुषोऽंधकारप्रविष्टो न किंचिदपि पश्येत् एवं वस्तुपतितो बोधिसत्त्वो द्रष्टव्यो यो वस्तुपतितो दानं परित्यजति । तद्यथापि नाम सुभूते चक्षुष्मान्पुरुषः प्रभातायां रात्र्यां सूर्येऽभ्युद्गते नानाविधानि रूपाणि पश्येत् एवमवस्तुपतितो बोधिसत्त्वो द्रष्टव्यो योऽवस्तुपतितो दानं परित्यजति ॥ अपि तु खलु पुनः सुभूते ये कुलपुत्रा वा कुलदुहितरो वेमं धर्मपर्यायमुद्गृहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति ज्ञातास्ते सुभूते तथागतेन बुद्धज्ञानेन दृष्टास्ते सुभूते तथागतेन बुद्धचक्षुषा बुद्धास्ते तथागतेन । सर्वे ते सुभूते सत्त्वा अप्रमेयमसंख्येयं पुण्यस्कंधं प्रसविष्यंति प्रतिगृहीष्यंति ॥१४॥ ### Section 15 यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा पूर्वाह्णकालसमये गंगानदीवालुकासमानात्मभावान्परित्यजेत् एवं मध्याह्नकालसमये गंगानदीवालुकासमानात्मभावान्परित्यजेत् सायाह्नकालसमये गंगानदीवालुकासमानात्मभावान्परित्यजेत् अनेन पर्यायेण बहूनि कल्पकोटिनियुतशतसहस्राण्यात्मभावान्परित्यजेत् यश्चेमं धर्मपर्यायं श्रुत्वा न प्रतिक्षिपेत् अयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं । कः पुनर्वादो यो लिखित्वोद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्परेभ्यश्च विस्तरेण संप्रकाशयेत् ॥ अपि तु खलु पुनः सुभूते अचिंत्योऽतुल्योऽयं धर्मपर्यायः । अयं च सुभूते धर्मपर्यायस्तथागतेन भाषितोऽग्रयानसंप्रस्थितानां सत्त्वानामर्थाय श्रेष्ठयानसंप्रस्थितानां सत्त्वानामर्थाय । य इमं धर्मपर्यायमुद्गृहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति ज्ञातास्ते सुभूते तथागतेन बुद्धज्ञानेन दृष्टास्ते सुभूते तथागतेन बुद्धचक्षुषा बुद्धास्ते तथागतेन । सर्वे ते सुभूते सत्त्वा अप्रमेयेण पुण्यस्कंधेन समन्वागता भविष्यंति । अचिंत्येनातुल्येनामापेनापरिमाणेन पुण्यस्कंधेन समन्वागता भविष्यंति । सर्वे ते सुभूते सत्त्वाः समांशेन बोधिं धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति । तत्कस्य हेतोः । न हि शक्यं सुभूतेऽयं धर्मपर्यायो हीनाधिमुक्तिकैः सत्त्वैः श्रोतुं नात्मदृष्टिकैर्न सत्त्वदृष्टिकैर्न जीवदृष्टिकैर्न पुद्गलदृष्टिकैः । नाबोधिसत्त्वप्रतिज्ञैः सत्त्वैः शक्यमयं धर्मपर्यायः श्रोतुं वोद्गृहीतुं वा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा । नेदं स्थानं विद्यते ॥ अपि तु खलु पुनः सुभूते यच्च पृथिवीप्रदेश इदं सूत्रं प्रकाशयिष्यते पूजनीयः स पृथिवीप्रदेशो भविष्यति सदेवमानुषासुरस्य लोकस्य वंदनीयः प्रदक्षिणीयश्च स पृथिवीप्रदेशो भविष्यति चैत्यभूतः स पृथिवीप्रदेशो भविष्यति ॥१५॥ ### Section 16 अपि तु ये ते सुभूते कुलपुत्रा वा कुलदुहितरो वेमानेवंरूपान्सूत्रांतानुद्गृहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति योनिशश्च मनसिकरिष्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति ते परिभूता भविष्यंति सुपरिभूताश्च भविष्यंति । तत्कस्य हेतोः । यानि च तेषां सुभूते सत्त्वानां पौर्वजन्मिकान्यशुभानि कर्माणि कृतान्यपायसंवर्तनीयानि दृष्ट एव धर्मे परिभूततया तानि पौर्वजन्मिकान्यशुभानि कर्माणि क्षपयिष्यंति बुद्धबोधिं चानुप्राप्स्यंति ॥ अभिजानाम्यहं सुभूते अतीतेऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परेण परतरेण चतुरशीतिबुद्धकोटिनियुतशतसहस्राण्यभूवन्ये मयारागिता आराग्य न विरागिताः । यच्च मया सुभूते ते बुद्धा भगवंत आरागिता आराग्य न विरागिता यच्च पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां सद्धर्मविप्रलोपकाले वर्तमाने इमानेवंरूपान्सूत्रांतानुद्गृहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति परेभ्यश्च विस्तरेण संप्रकाशयिष्यंति । अस्य खलु पुनः सुभूते पुण्यस्कंधस्यांतिकादसौ पौर्वकः पुण्यस्कंधः शततमीमपि कलां नोपैति सहस्रतमीमपि शतसहस्रतमीमपि कोटितमीमपि कोटिशततमीमपि कोटिसहस्रतमीमपि कोटिनियुतशतसहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि यावदौपम्यमपि न क्षमते ॥ सचेत्पुनः सुभूते तेषां कुलपुत्राणां कुलदुहितॄणां वाहं पुण्यस्कंधं भाषेयं यावत्ते कुलपुत्रा वा कुलदुहितरो वा तस्मिन्समये पुण्यस्कंधं प्रसविष्यंति प्रतिगृहीष्यंति उन्मादं सत्त्वा अनुप्राप्नुयुश्चित्तविक्षेपं वा गच्छेयुः । अपि तु खलु पुनः सुभूते अचिंत्योऽतुल्योऽयं धर्मपर्यायस्तथागतेन भाषितः । अस्याचिंत्य एव विपाकः प्रतिकांक्षितव्यः ॥१६॥ ### Section 17 अथ खल्वायुष्मान्सुभूतिर्भगवंतमेतदवोचत् । कथं भगवन्बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यं । भगवानाह । इह सुभूते बोधिसत्त्वयानसंप्रस्थितेनैवं चित्तमुत्पादयितव्यं सर्वे सत्त्वा मयानुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः । एवं च सत्त्वान्परिनिर्वाप्य न कश्चित्सत्त्वः परिनिर्वापितो भवति । तत्कस्य हेतोः । सचेत्सुभूते बोधिसत्त्वस्य सत्त्वसंज्ञा प्रवर्तेत न स बोधिसत्त्व इति वक्तव्यः । जीवसंज्ञा वा यावत्पुद्गलसंज्ञा वा प्रवर्तेत न स बोधिसत्त्व इति वक्तव्यः । तत्कस्य हेतोः । नास्ति सुभूते स कश्चिद्धर्मो यो बोधिसत्त्वयानसंप्रस्थितो नाम ॥ तत्किं मन्यसे सुभूते अस्ति स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यांतिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । एवमुक्ते आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । यथाहं भगवन्भगवतो भाषितस्यार्थमाजानामि नास्ति स भगवन्कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्याहतः सम्यक्संबुद्धस्यांतिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् । एवमेतत्सुभूते एवमेतत् नास्ति सुभूते स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्याहतः सम्यक्संबुद्धस्यांतिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । सचेत्पुनः सुभूते कश्चिद्धर्मस्तथागतेनाभिसंबुद्धोऽभविष्यत् न मां दीपंकरस्तथागतो व्याकरिष्यद्भविष्यसि त्वं माणवानागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन्सम्यक्संबुद्ध इति । यस्मात्तर्हि सुभूते तथागतेनार्हता सम्यक्संबुद्धेन नास्ति स कश्चिद्धर्मो योऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्तस्मादहं दीपंकरेण तथागतेन व्याकृतो भविष्यामि त्वं माणवानागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन्सम्यक्संबुद्धः ॥ तत्कस्य हेतोस्तथागत इति सुभूते । भूततथताया एतदधिवचनं । तथागत इति सुभूते । अनुत्पादधर्मताया एतदधिवचनं । तथागत इति सुभूते । धर्मोच्छेदस्यैतदधिवचनं । तथागत इति सुभूते । अत्यंतानुत्पन्नस्यैतदधिवचनं ॥ तत्कस्य हेतोः । एष सुभूतेऽनुत्पादो यः परमार्थः । यः कश्चित्सुभूत एवं वदेत्तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धेति स वितथं वदेत् अभ्याचक्षीत मां स सुभूते असतोऽग्रहीतेन । तत्कस्य हेतोः । नास्ति सुभूते स कश्चिद्धर्मो यस्तथागतेनानुत्तरां सम्यक्संबोधिमभिसंबुद्धः । यश्च सुभूते तथागतेन धर्मोऽभिसंबुद्धो देशितो वा तच्च न सत्यं न मृषा । तस्मात्तथागतो भाषते सर्वधर्मा बुद्धधर्मा इति । तत्कस्य हेतोः । सर्वधर्मा इति सुभूते अधर्मास्तथागतेन भाषिताः । तस्मादुच्यंते सर्वधर्मा बुद्धधर्मा इति ॥ तद्यथापि नाम सुभूते पुरुषो भवेदुपेतकायो महाकायः । आयुष्मान्सुभूतिराह । योऽसौ भगवंस्तथागतेन पुरुषो भाषित उपेतकायो महाकाय इति अकायः स भगवंस्तथागतेन भाषितः । तेनोच्यत उपेतकायो महाकाय इति ॥ भगवानाह । एवमेतत्सुभूते । यो बोधिसत्त्व एवं वदेदहं सत्त्वान्परिनिर्वापयिष्यामीति न स बोधिसत्त्व इति वक्तव्यः । तत्कस्य हेतोः । अस्ति सुभूते स कश्चिद्धर्मो यो बोधिसत्त्वो नाम । सुभूतिराह । नो हीदं भगवन् नास्ति स कश्चिद्धर्मो यो बोधिसत्त्वो नाम । भगवानाह । सत्त्वाः सत्त्वा इति सुभूते असत्त्वास्ते तथागतेन भाषितास्तेनोच्यंते सत्त्वा इति । तस्मात्तथागतो भाषते निरात्मानः सर्वधर्मा निर्जीवा निष्पोषा निष्पुद्गलाः सर्वधर्मा इति ॥ यः सुभूते बोधिसत्त्व एवं वदेदहं क्षेत्रव्यूहानिष्पादयिष्यामीति स वितथं वदेत् । तत्कस्य हेतोः । क्षेत्रव्यूहा क्षेत्रव्यूहा इति सुभूते अव्यूहास्ते तथागतेन भाषिताः । तेनोच्यंते क्षेत्रव्यूहा इति ॥ यः सुभूते बोधिसत्त्वो निरात्मानो धर्मा निरात्मानो धर्मा इत्यधिमुच्यते स तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वो महासत्त्व इत्याख्यातः ॥१७॥ ### Section 18 भगवानाह । तत्किं मन्यसे सुभूते संविद्यते तथागतस्य मांसचक्षुः । सुभूतिराह । एवमेतद्भगवन् संविद्यते तथागतस्य मांसचक्षुः । भगवानाह । तत्किं मन्यसे सुभूते संविद्यते तथागतस्य दिव्यं चक्षुः । सुभूतिराह । एवमेतद्भगवन् संविद्यते तथागतस्य दिव्यं चक्षुः । भगवानाह । तत्किं मन्यसे सुभूते संविद्यते तथागतस्य प्रज्ञाचक्षुः । सुभूतिराह । एवमेतद्भगवन् संविद्यते तथागतस्य प्रज्ञाचक्षुः । भगवानाह । तत्किं मन्यसे सुभूते संविद्यते तथागतस्य धर्मचक्षुः । सुभूतिराह । एवमेतद्भगवन् संविद्यते तथागतस्य धर्मचक्षुः । भगवानाह । तत्किं मन्यसे सुभूते संविद्यते तथागतस्य बुद्धचक्षुः । सुभूतिराह । एवमेतद्भगवन्संविद्यते तथागतस्य बुद्धचक्षुः ॥ भगवानाह । तत्किं मन्यसे सुभूते यावत्यो गंगायां महानद्यां वालुका अपि नु ता वालुकास्तथागतेन भाषिताः । सुभूतिराह । एवमेतद्भगवन्नेवमेतत्सुगत भाषितास्तथागतेन वालुकाः । भगवानाह । तत्किं मन्यसे सुभूते यावत्यो गंगायां महानद्यां वालुकास्तावत्य एव गंगानद्यो भवेयुः तासु या वालुकास्तावंतश्च लोकधातवो भवेयुः कच्चिद्बहवस्ते लोकधातवो भवेयुः । सुभूतिराह । एवमेतद्भगवन्नेवमेतत्सुगत बहवस्ते लोकधातवो भवेयुः । भगवानाह । यावंतः सुभूते तेषु लोकधातुषु सत्त्वास्तेषामहं नानाभावां चित्तधारां प्रजानामि । तत्कस्य हेतोः । चित्तधारा चित्तधारेति सुभूते अधौरेषा तथागतेन भाषिता । तेनोच्यते चित्तधारेति । तत्कस्य हेतोः । अतीतं सुभूते चित्तं नोपलभ्यते । अनागतं चित्तं नोपलभ्यते । प्रत्युत्पन्नं चित्तं नोपलभ्यते ॥१८॥ ### Section 19 तत्किं मन्यसे सुभूते यः कश्चित्कुलपुत्रो वा कुलदुहिता वेमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्यात् । अपि नु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहु पुण्यस्कंधं प्रसुनुयात् । सुभूतिराह । बहु भगवन्बहु सुगत । भगवानाह । एवमेतत्सुभूते एवमेतत् बहु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं । तत्कस्य हेतोः । पुण्यस्कंधः पुण्यस्कंध इति सुभूते अस्कंधः स तथागतेन भाषितः । तेनोच्यते पुण्यस्कंध इति । सचेत्पुनः सुभूते पुण्यस्कंधोऽभविष्यत् न तथागतोऽभाषिष्यत् पुण्यस्कंधः पुण्यस्कंध इति ॥१९॥ ### Section 20 तत्किं मन्यसे सुभूते रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः । सुभूतिराह । नो हीदं भगवन् न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः । तत्कस्य हेतोः । रूपकायपरिनिष्पत्तिः रूपकायपरिनिष्पत्तिरिति भगवन् अपरिनिष्पत्तिरेषा तथागतेन भाषिता । तेनोच्यते रूपकायपरिनिष्पत्तिरिति ॥ भगवानाह । तत्किं मन्यसे सुभूते लक्षणसंपदा तथागतो द्रष्टव्यः । सुभूतिराह । नो हीदं भगवन् न लक्षणसंपदा तथागतो द्रष्टव्यः । तत्कस्य हेतोः । यैषा भगवँल्लक्षणसंपत्तथागतेन भाषिता अलक्षणसंपदेषा तथागतेन भाषिता । तेनोच्यते लक्षणसंपदिति ॥२०॥ ### Section 21 भगवानाह । तत्किं मन्यसे सुभूते अपि नु तथागतस्यैवं भवति मया धर्मो देशित इति । सुभूतिराह । नो हीदं भगवन् तथागतस्यैवं भवति मया धर्मो देशित इति । भगवानाह । यः सुभूते एवं वदेत्तथागतेन धर्मो देशित इति स वितथं वदेत् अभ्याचक्षीत मां स सुभूतेऽसतोऽग्रहीतेन । तत्कस्य हेतोः । धर्मदेशना धर्मदेशनेति सुभूते नास्ति स कश्चिद्धर्मो यो धर्मदेशना नामोपलभ्यते ॥ एवमुक्ते आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । अस्ति भगवन्केचित्सत्त्वा भविष्यंत्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पंचशत्यां सद्धर्मविप्रलोपे वर्तमाने य इमानेवंरूपान्धर्मान्श्रुत्वाभिश्रद्धास्यंति । भगवानाह । न ते सुभूते सत्त्वा नासत्त्वाः । तत्कस्य हेतोः । सत्त्वाः सत्त्वा इति सुभूते सर्वे ते सुभूते असत्त्वास्तथागतेन भाषिताः । तेनोच्यंते सत्त्वा इति ॥२१॥ ### Section 22 तत्किं मन्यसे सुभूते अपि न्वस्ति स कश्चिद्धर्मो यस्तथागतेनानुत्तरां सम्यक्संबोधिमभिसंबुद्धः । आयुष्मान्सुभूतिराह । नो हीदं भगवन् नास्ति स भगवन्कश्चिद्धर्मो यस्तथागतेनानुत्तरां सम्यक्संबोधिमभिसंबुद्धः । भगवानाह । एवमेतत्सुभूते एवमेतत् अणुरपि तच धर्मो न संविद्यते नोपलभ्यते । तेनोच्यतेऽनुत्तरा सम्यक्संबोधिरिति ॥२२॥ ### Section 23 अपि तु खलु पुनः सुभूते समः स धर्मो न तच कश्चिद्विषमः । तेनोच्यतेऽनुत्तरा सम्यक्संबोधिरिति । निरात्मत्वेन निःसत्त्वेन निर्जीवत्वेन निष्पुद्गलत्वेन समा सानुत्तरा सम्यक्संबोधिः सर्वैः कुशलैर्धर्मैरभिसंबुध्यते । तत्कस्य हेतोः । कुशला धर्माः कुशला धर्मा इति सुभूते अधर्माश्चैव ते तथागतेन भाषिताः । तेनोच्यंते कुशला धर्मा इति ॥२३॥ ### Section 24 यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा यावंतस्त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरवः पर्वतराजानस्तावतो राशीन्सप्तानां रत्नानामभिसंहत्य तथागतेभ्योऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्यात् । यश्च कुलपुत्रो वा कुलदुहिता वेतः प्रज्ञापारमिताया धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेदस्य सुभूते पुण्यस्कंधस्यासौ पौर्वकः पुण्यस्कंधः शततमीमपि कलां नोपैति यावदुपनिषदमपि न क्षमते ॥२४॥ ### Section 25 तत्किं मन्यसे सुभूते अपि नु तथागतस्यैवं भवति मया सत्त्वाः परिमोचिता इति । न खलु पुनः सुभूत एवं द्रष्टव्यं । तत्कस्य हेतोः । नास्ति सुभूते कश्चित्सत्त्वो यस्तथागतेन परिमोचितः । यदि पुनः सुभूते कश्चित्सत्त्वोऽभविष्यत् तथागतेन परिमोचितः स्यात् स एव तथागतस्यात्मग्राहोऽभविष्यत् सत्त्वग्राहो जीवग्राहः पुद्गलग्राहोऽभविष्यत् । आत्मग्राह इति सुभूते अग्राह एष तथागतेन भाषितः । स च बालपृथग्जनैरुद्गृहीतः । बालपृथग्जना इति सुभूते अजना एव ते तथागतेन भाषिताः । तेनोच्यंते बालपृथग्जना इति ॥२५॥ ### Section 26 तत्किं मन्यसे सुभूते लक्षणसंपदा तथागतो द्रष्टव्यः । सुभूतिराह । नो हीदं भगवन् । यथाहं भगवतो भाषितस्यार्थमाजानामि न लक्षणसंपदा तथागतो द्रष्टव्यः । भगवानाह । साधु साधु सुभूते एवमेतत्सुभूते एवमेतद्यथा वदसि । न लक्षणसंपदा तथागतो द्रष्टव्यः । तत्कस्य हेतोः । सचेत्पुनः सुभूते लक्षणसंपदा तथागतो द्रष्टव्योऽभविष्यद्राजापि चक्रवर्ती तथागतोऽभविष्यत् । तस्मान्न लक्षणसंपदा तथागतो द्रष्टव्यः । आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् । यथाहं भगवतो भाषितस्यार्थमाजानामि न लक्षणसंपदा तथागतो द्रष्टव्यः । अथ खलु भगवांस्तस्यां वेलायामिमे गाथे अभाषत ॥ ये मां रूपेण चाद्राक्षुर्ये मां घोषेण चान्वगुः । मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यंति ते जनाः ॥१॥ धर्मतो बुद्धो द्रष्टव्यो धर्मकाया हि नायकाः । धर्मता च न विज्ञेया न सा शक्या विजानितुं ॥२॥ २६॥ ### Section 27 तत्किं मन्यसे सुभूते लक्षणसंपदा तथागतेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा । न खलु पुनस्ते सुभूत एवं द्रष्टव्यं । तत्कस्य हेतोः । न हि सुभूते लक्षणसंपदा तथागतेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा स्यात् । न खलु पुनस्ते सुभूते कश्चिदेवं वदेत् बोधिसत्त्वयानसंप्रस्थितैः कस्यचिद्धर्मस्य विनाशः प्रज्ञप्त उच्छेदो वेति । न खलु पुनस्ते सुभूत एवं द्रष्टव्यं । तत्कस्य हेतोः । न बोधिसत्त्वयानसंप्रस्थितैः कस्यचिद्धर्मस्य विनाशः प्रज्ञप्तो नोच्छेदः ॥२७॥ ### Section 28 यश्च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा गंगानदीवालुकासमाँल्लोकधातून्सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्याद्यश्च बोधिसत्त्वो निरात्मकेष्वनुत्पत्तिकेषु धर्मेषु क्षांतिं प्रतिलभते अयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसवेदप्रमेयमसंख्येयं । न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन पुण्यस्कंधः परिगृहीतव्यः । आयुष्मान्सुभूतिराह । ननु भगवन् बोधिसत्त्वेन पुण्यस्कंधः परिगृहीतव्यः । भगवानाह । परिगृहीतव्यः सुभूते नो गृहीतव्यः । तेनोच्यते परिगृहीतव्य इति ॥२८॥ ### Section 29 अपि तु खलु पुनः सुभूते यः कश्चिदेवं वदेत् तथागतो गच्छति वागच्छति वा तिष्ठति वा निषीदति वा शय्यां वा कल्पयति न मे सुभूते भाषितस्यार्थमाजानाति । तत्कस्य हेतोः । तथागत इति सुभूत उच्यते न क्वचिद्गतो न कुतश्चिदागतः । तेनोच्यते तथागतोऽर्हन्सम्यक्संबुद्ध इति ॥२९॥ ### Section 30 यश्च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा यावंति त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरजांसि तावतां लोकधातूनामेवंरूपं मषिं कुर्यात् यावदेवमसंख्येयेन वीर्येण तद्यथापि नाम परमाणुसंचयः तत्किं मन्यसे सुभूते अपि नु बहुः स परमाणुसंचयो भवेत् । सुभूतिराह । एवमेतद्भगवन्नेवमेतत्सुगत । बहुः स परमाणुसंचयो भवेत् । तत्कस्य हेतोः । सचेद्भगवन्बहुः परमाणुसंचयोऽभविष्यत् न भगवानवक्ष्यत्परमाणुसंचय इति । तत्कस्य हेतोः । योऽसौ भगवन्परमाणुसंचयस्तथागतेन भाषितः असंचयः स तथागतेन भाषितः । तेनोच्यते परमाणुसंचय इति ॥ यश्च तथागतेन भाषितस्त्रिसाहस्रमहासाहस्रो लोकधातुरिति अधातुः स तथागतेन भाषितः । तेनोच्यते त्रिसाहस्रमहासाहस्रो लोकधातुरिति । तत्कस्य हेतोः । सचेद्भगवन् लोकधातुरभविष्यत् स एव पिंडग्राहोऽभविष्यत् यश्चैव पिंडग्राहस्तथागतेन भाषितः अग्राहः स तथागतेन भाषितः । तेनोच्यते पिंडग्राह इति । भगवानाह । पिंडग्राहश्चैव सुभूते अव्यवहारोऽनभिलप्यः । न स धर्मो नाधर्मः । स च बालपृथग्जनैरुद्गृहीतः ॥३०॥ ### Section 31 तत्कस्य हेतोः । यो हि कश्चित्सुभूत एवं वदेदात्मदृष्टिस्तथागतेन भाषिता सत्त्वदृष्टिर्जीवदृष्टिः पुद्गलदृष्टिस्तथागतेन भाषिता । अपि नु स सुभूते सम्यग्वदमानो वदेत् । सुभूतिराह । नो हीदं भगवन्नो हीदं सुगत न सम्यग्वदमानो वदेत् । तत्कस्य हेतोः । या सा भगवन्नात्मदृष्टिस्तथागतेन भाषिता अदृष्टिः सा तथागतेन भाषिता । तेनोच्यत आत्मदृष्टिरिति ॥ भगवानाह । एवं हि सुभूते बोधिसत्त्वयानसंप्रस्थितेन सर्वधर्मा ज्ञातव्या दृष्टव्या अधिमोक्तव्याः । तथा च ज्ञातव्या दृष्टव्या अधिमोक्तव्या यथा न धर्मसंज्ञायामपि प्रत्युपतिष्ठेन्नाधर्मसंज्ञायां । तत्कस्य हेतोः । धर्मसंज्ञा धर्मसंज्ञेति सुभूते असंज्ञैषा तथागतेन भाषिता । तेनोच्यते धर्मसंज्ञेति ॥३१॥ ### Section 32 यश्च खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वोऽप्रमेयानसंख्येयाँल्लोकधातून्सप्तरत्नपरिपूर्णान् कृत्वा तथागतेभ्योऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्याद्यश्च कुलपुत्रो वा कुलदुहिता वेतः प्रज्ञापारमिताया धर्मपर्यायादंतशश्चतुष्पादिकामपि गाथामुद्गृह्य धारयेद्वाचयेत्पर्यवाप्नुयात्परेभ्यश्च विस्तरेण संप्रकाशयेदयमेव ततो निदानं बहुतरं पुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं । कथं च संप्रकाशयेत् । तद्यथाकाशे । तारका तिमिरं दीपो मायावश्यायबुद्बुदं । स्वप्नं च विद्युदभ्रं च एवं द्रष्टव्यं संस्कृतं ॥ तथा प्रकाशयेत् तेनोच्यते संप्रकाशयेदिति ॥ इदमवोचद्भगवानात्तमनाः । स्थविरसुभूतिस्ते च भिक्षुभिक्षुण्युपासकोपासिकास्ते च बोधिसत्त्वाः सदेवमानुषासुरगंधर्वश्च लोको भगवतो भाषितमभ्यनंदन्निति ॥३२॥ ॥ आर्यवज्रच्छेदिका भगवती प्रज्ञापारमिता समाप्ता ॥